Class | 8 |
Subject | संस्कृत |
Book | NCERT |
NCERT Solution of Class 8th Sanskrit Ruchira / रुचिरा Chapter 2 बिलस्य वाणी न कदापि मे श्रुता / Bilasya vani na kdapi me shruta Question Answer Solution.
बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 Question answer
1. उच्चारणं कुरुत —
कंस्मिश्चित
क्षुधात
सिंहपदपद्धतिः
विचिन्त्य
एतच्छ्रुत्वा
समाह्वानम्
साध्विदम्
भयसन्त्रस्तमनसाम्
प्रतिध्वनि
2. एकपदेन उत्तरं लिखत
क. सिंहस्य नाम किम् ?
ख. गुहायाः स्वामी कः आसीत् ?
ग. सिंहः कस्मिन् समये गुहायाः समीपे आगत: ?
घ. हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ?
ङ. गुहा केन प्रतिध्वनिता ?
उत्तर – (क) खरनखर: (ख) दधिपुच्छ (ग) सूर्यास्तसमये (घ) भयसन्त्रस्तमनसाम् (ङ) उच्चगर्जनेन
3. पूर्णवाक्येन उत्तरत –
क. खरनखरः कुत्र प्रतिवसति स्म ?
उत्तर. खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म ।
ख. महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
उत्तर. महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्, “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति । अतः अत्रैव निगूढो भूत्वा तिष्ठामि’ इति ।
ग. शृगालः किम् अचिन्तयत् ?
उत्तर. शृगालः अचिन्तयत्- “अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि ?”
घ. शृगालः कुत्र पलायितः ?
उत्तर. शृगालः दूरं पलायितः ।
ङ. गुहासमीपमागत्य शृगालः किं पश्यति ?
उत्तर. गुहासमीपमागत्य शृगालः यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता।
च. कः शोभते ?
उत्तर. यः अनागतं कुरुते सः शोभते ।
4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – –
क. क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान् ।
उत्तर. कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?
ख. दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत् ।
उत्तर. किं नाम शृगालः गुहाया: स्वामी आसीत् ?
ग. एषा गुहा स्वामिनः सदा आह्वानं करोति।
उत्तर. एषा गुहा कस्य सदा आह्वानं करोति ?
घ. भयसन्त्रस्तमनसां हस्तपादिकाः क्रियाः न प्रवर्तन्ते।
उत्तर. भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते ?
ङ. आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।
उत्तर. आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति ?
5. घटनाक्रमानुसारं वाक्यानि लिखत —
क. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
ख. सिंहः एकां महतीं गुहाम् अपश्यत् ।
ग. परिभ्रमन् सिंहः क्षुधार्तो जातः ।
घ. दूरस्थः शृगालः रवं कर्तुमारब्धः ।
ङ. सिंहः शृगालस्य आह्वानमकरोत् ।
च. दूरं पलायमानः शृगालः श्लोकमपठत् ।
छ. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
उत्तर – क. परिभ्रमन् सिंहः क्षुधार्तो जातः ।
ख. सिंह: एकां महतीं गुहाम् अपश्यत् ।
ग. गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् ।
घ. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
ङ. दूरस्थः शृगालः रवं कर्तुमारब्धः ।
च. सिंहः शृगालस्य आह्वानमकरोत् ।
छ. दूरं पलायमानः शृगालः श्लोकमपठत् ।
6. यथानिर्देशमुत्तरत –
क. ‘एका महतीं गुहां दृष्ट्वा सः अचिन्तयत् अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत ?
उत्तर. अस्मिन् वाक्ये द्वे विशेषणपदे स्तः । 1. एकाम् 2. महतीम् ।
ख. तदहम् अस्य आह्वानं करोमि । अत्र ‘अहम् इति पदं कस्मै प्रयुक्तम् ?
उत्तर. सिंहाय ।
ग. ‘यदि त्वं मां न आह्वयसि अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर. त्वम् ।
घ. ‘सिंहपदपद्वतिः गुहायां प्रविष्टा दृश्यते अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर. दृश्यते ।
ङ. ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम् ?
उत्तर. अत्र ।
7. मंजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत –
कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः । क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत् । यदा कपोताः तण्डूलान् अपश्यन् तदा तेषां लोभो जातः । परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति । कुतः तण्डुलानाम् सम्भवः । परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डूलान् खादितुं प्रवृत्ताः जाले च निपतिताः । अतः उक्तम् ‘सहसा विदधीत न क्रियाम् ‘।
Also Read: – Class 8 Sanskrit रुचिरा NCERT Solution |
Also Read : – Class 8 Important Questions for Exams |