Class | 8 |
Subject | संस्कृत |
Book | NCERT |
NCERT Solution of Class 8th Sanskrit Ruchira / रुचिरा Chapter 5 कण्टकेनैव कण्टकम् / kantakenav kantakam Question Answer Solution.
कण्टकेनैव कण्टकम् Class 8 Sanskrit Chapter 5 Question answer
1. एकपदेन उत्तरं लिखत –
क. व्याधस्य नाम किम् आसीत् ?
ख. चंचल: व्याघ्रं कुत्र दृष्ट्वान् ?
ग. कस्मै किमपि अकार्य न भवति ?
घ. बदरी- गुल्माना पृष्ठे का निलीना आसीत् ?
ङ. सर्व कि समीहते ?
च. निःसहायो व्याघ्रः किमयाचत ?
उत्तर – (क) चंचल: (ख) जाले (ग) क्षुधार्ताय (घ) लोमशिका (ङ) स्वार्थम् (च) प्राणभिक्षाम्
2. पूर्णवाक्येन उत्तरत—
क. चंचलेन वने किं कृतम् ?
उत्तर. चंचलेन वने जालं विस्तारितम् ।
ख. व्याघ्रस्य पिपासा कथं शान्ता अभवत् ?
उत्तर. व्याघ्रस्य पिपासा नद्याः जलं पीत्वा शान्ता अभवत् ।
ग. जलं पीत्वा व्याघ्रः किम् अवदत् ?
उत्तर. जलं पीत्वा व्याघ्रः अवदत्, “साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि।”
घ. चंचल: ‘मातृस्वसः !’ इति का सम्बोधितवान् ?
उत्तर. चंचल: ‘मातृस्वसः !’ इति लोमशिकां सम्बोधितवान्
ङ. जाले पुनः बद्धः व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत् ?
उत्तर. जाले पुनः बद्धः व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं गतवान्।
3. अधोलिखितानि वाक्यानि कः / का / कं / कां प्रति कथयति ·
कः / का | कं / कां | |
यथा- इदानीम् अहं त्वां खादिष्यामि । | व्याघ्र: | व्याधम् |
क. कल्याण भवतु ते। | व्याघ्र: | व्याधम् |
ख. जनाः मयि स्नानं कुर्वन्ति । | नदीजलम् | व्याधम् |
ग. अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। | व्याधः | व्याधम् |
घ. यत्र कुत्रापि छेदनं कुर्वन्ति । | वृक्षः | व्याधम् |
ङ सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। | लोमशिका | व्याधम् |
4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —
क. व्याधः व्याघ्रं जालात बहिः निरसारयत्।
उत्तर. व्याधः व्याघ्रं कस्मात् बहिः निरसारयत् ?
ख. चंचल वृक्षम् उपगम्य अपृच्छत् ।
उत्तर. चंचलः कम उपगम्य अपृच्छत् ?
ग. व्याधः लोमशिकायै निखिला कथां न्यवेदयत् ।
उत्तर. व्याधः कस्यै निखिला कथां न्यवेदयत् ?
घ. मानवाः वृक्षाणां छायाया विरमन्ति ।
उत्तर. मानवाः केषां छायाया विरमन्ति ?
ङ. व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत्।
उत्तर. व्याधः कस्याः जलेन व्याघ्रस्य पिपासामशमयत् ?
5. मंजूषातः पदानि चित्वा कथां पूरयत —
वृद्धः साट्टहासम् मोचयितुम् क्षुद्र: तर्हि
अकस्मात् कृतवान् कर्तनम् स्वकीयै: दृष्ट्वा |
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत् । सः एकदा व्याधेन विस्तारिते जाले ब अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एक: मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्- अहो! भवान् जाले बद्धः । अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत् अरे! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि । मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनं कृत्वा तं व्याघ्रं बहिः कृतवान्।
6. यथानिर्देशमुत्तरत —
क. सः लोमशिकायै सर्वा कथां न्यवेदयत् अस्मिन् वाक्ये विशेषणपदं किम् ?
उत्तर. सर्वाम्
ख. अहँ त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर. व्याधाय / चंचलाय।
ग. ‘सर्वः स्वार्थ समीहते, अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर. सर्वः ।
घ. सा सहसा चंचलमुपसृत्य कथयति- वाक्यात् एकम् अव्ययपदं चित्वा लिखत ।
उत्तर. सहसा ।
ङ. ‘का वार्ता ? माम् अपि विज्ञापय । अस्मिन् वाक्ये क्रियापदं किम् ? क्रियापदस्य पदपरिचयमपि लिखतः ।
उत्तर. अस्मिन् वाक्ये ‘विज्ञापय इति क्रियापदम् ।
पदपरिचयः वि उपसर्ग, ज्ञा धातुः, लोट्लकार मध्यमपुरुष एकवचनम् ।
7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत —
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा — मातृ ( प्रथमा )
स्वसृ ( प्रथमा ) |
माता
स्वसा |
मातरौ
स्वसारौ |
मातर:
स्वसार: |
मातृ ( तृतीया )
स्वसृ ( तृतीया ) |
मात्रा
स्वस्रा |
मातृभ्याम्
स्वसृभ्याम् |
मातृभि:
स्वसृभि: |
स्वसृ ( सप्तमी )
मातृ ( सप्तमी ) |
स्वसरि
मातरि |
स्वस्रो:
मात्रो: |
स्वसृषु
मातृषु |
स्वसृ ( षष्ठी )
मातृ ( षष्ठी ) |
स्वसु:
मातु: |
स्वस्रो:
मात्रो: |
स्वसृणाम्
मातृणाम् |
(आ) धातु प्रत्ययं च लिखत —
पदानि धातु: प्रत्यय:
यथा – गन्तुम् गम् + तुमुन्
द्रष्टुम् दृश् + तुमुन्
करणीय कृ + अनीयर्
पातुम् पा + तुमुन्
खादितुम् खाद् + तुमुन्
कृत्वा कृ + क्त्वा
Also Read: – Class 8 Sanskrit रुचिरा NCERT Solution |
Also Read : – Class 8 Important Questions for Exams |