बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 Question Answer – रुचिरा NCERT Solution

Class 8
Subject संस्कृत
Book NCERT

NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 2 बिलस्य वाणी न कदापि मे श्रुता / Bilasya vani na kdapi me shruta Question Answer Solution.

बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 Question answer


1. उच्चारणं कुरुत —

कंस्मिश्चित 

क्षुधात

सिंहपदपद्धतिः

विचिन्त्य

एतच्छ्रुत्वा

समाह्वानम्

साध्विदम्

भयसन्त्रस्तमनसाम्

प्रतिध्वनि


2. एकपदेन उत्तरं लिखत

क. सिंहस्य नाम किम् ?

ख. गुहायाः स्वामी कः आसीत् ?

ग. सिंहः कस्मिन् समये गुहायाः समीपे आगत: ?

घ. हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ?

ङ. गुहा केन प्रतिध्वनिता ?

उत्तर – (क) खरनखर: (ख) दधिपुच्छ (ग) सूर्यास्तसमये (घ) भयसन्त्रस्तमनसाम् (ङ) उच्चगर्जनेन


3. पूर्णवाक्येन उत्तरत –

क. खरनखरः कुत्र प्रतिवसति स्म ?

उत्तर. खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म ।

ख. महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?

उत्तर. महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्, “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति । अतः अत्रैव निगूढो भूत्वा तिष्ठामि’ इति ।

ग. शृगालः किम् अचिन्तयत् ?

उत्तर. शृगालः अचिन्तयत्- “अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि ?”

घ. शृगालः कुत्र पलायितः ?

उत्तर. शृगालः दूरं पलायितः ।

ङ. गुहासमीपमागत्य शृगालः किं पश्यति ?

उत्तर. गुहासमीपमागत्य शृगालः यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता।

च. कः शोभते ?

उत्तर. यः अनागतं कुरुते सः शोभते ।


4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – –

क. क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान् ।

उत्तर. कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?

ख. दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत् ।

उत्तर. किं नाम शृगालः गुहाया: स्वामी आसीत् ?

ग. एषा गुहा स्वामिनः सदा आह्वानं करोति।

उत्तर. एषा गुहा कस्य सदा आह्वानं करोति ?

घ. भयसन्त्रस्तमनसां हस्तपादिकाः क्रियाः न प्रवर्तन्ते।

उत्तर. भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते ?

ङ. आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।

उत्तर. आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति ?


5. घटनाक्रमानुसारं वाक्यानि लिखत —

क. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।

ख. सिंहः एकां महतीं गुहाम् अपश्यत् ।

ग. परिभ्रमन् सिंहः क्षुधार्तो जातः ।

घ. दूरस्थः शृगालः रवं कर्तुमारब्धः ।

ङ. सिंहः शृगालस्य आह्वानमकरोत् ।

च. दूरं पलायमानः शृगालः श्लोकमपठत् ।

छ. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।

उत्तर – क. परिभ्रमन् सिंहः क्षुधार्तो जातः ।

ख. सिंह: एकां महतीं गुहाम् अपश्यत् ।

ग. गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् ।

घ. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।

ङ. दूरस्थः शृगालः रवं कर्तुमारब्धः ।

च. सिंहः शृगालस्य आह्वानमकरोत् ।

छ. दूरं पलायमानः शृगालः श्लोकमपठत् ।


6. यथानिर्देशमुत्तरत –

क. ‘एका महतीं गुहां दृष्ट्वा सः अचिन्तयत् अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत ?

उत्तर. अस्मिन् वाक्ये द्वे विशेषणपदे स्तः । 1. एकाम् 2. महतीम् ।

ख. तदहम् अस्य आह्वानं करोमि । अत्र ‘अहम् इति पदं कस्मै प्रयुक्तम् ?

उत्तर. सिंहाय ।

ग. ‘यदि त्वं मां न आह्वयसि अस्मिन् वाक्ये कर्तृपदं किम् ?

उत्तर. त्वम् ।

घ. ‘सिंहपदपद्वतिः गुहायां प्रविष्टा दृश्यते अस्मिन् वाक्ये क्रियापदं किम् ?

उत्तर. दृश्यते ।

ङ. ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम् ?

उत्तर. अत्र ।


7. मंजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत –

कश्चन   दूरे   नीचैः   यदा   तदा   यदि   तर्हि  परम्   च  सहसा

एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः । क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत् । यदा कपोताः तण्डूलान् अपश्यन् तदा तेषां लोभो जातः । परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति । कुतः तण्डुलानाम् सम्भवः । परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डूलान् खादितुं प्रवृत्ताः जाले निपतिताः । अतः उक्तम् ‘सहसा विदधीत न क्रियाम् ‘।


Also Read:Class 8 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 8 Important Questions for Exams

Leave a Comment

error: